|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.130. अध्यायः 130
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेण सुवणोत्पत्तिप्रकारं पृष्टेन भीष्मेण तत्प्रतिपादकवसिष्ठपरसुरामसंवादानुवादारम्भः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
उक्तं पितामहेनेदं गवां दानमनुत्तमम्।
विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम्॥ 13-130-1(86350)
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः।
परिचारेषु वै दुःखं दुर्धरं चाकृतात्मभिः।
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः॥ 13-130-2(86351)
पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम्।
सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन॥ 13-130-3(86352)
एवमेव गवामुक्तं प्रदानं ते नृगेण ह।
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्॥ 13-130-4(86353)
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणाः।
सर्वक्रतुषु चोद्दिष्टा भूमिर्गावोऽथ काञ्चनम्॥ 13-130-5(86354)
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै।
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्॥ 13-130-6(86355)
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्।
किंदैव किंफलं चैव कस्माच्च परमुच्यते॥ 13-130-7(86356)
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः।
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते॥ 13-130-8(86357)
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्।
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह॥ 13-130-9(86358)
भीष्म उवाच। 13-130-10x(7170)
शृणु राजन्नवहितो बहुकारणविस्तरम्।
जातरूपसमुत्पत्तिमनुभूतं च यन्मया॥ 13-130-10(86359)
पिता मम महातेजाः श्तनुर्निधनं गतः।
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम्॥ 13-130-11(86360)
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्।
मातो मे जाह्नवी चात्र साहाय्यमकरोत्तदा॥ 13-130-12(86361)
तत्रागतांस्तपस्सिद्धानुपवेश्य बहूनृषीन्।
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम्॥ 13-130-13(86362)
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः।
दातुं निर्वपणं सम्यग्यथावदहमारभम्॥ 13-130-14(86363)
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः।
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशाम्पते॥ 13-130-15(86364)
मुहूर्तमपि तं दृष्ट्वा परं विस्मयमागमम्।
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ॥ 13-130-16(86365)
ततो मे पुनरेवासीत्संज्ञा सञ्चिन्त्य शास्त्रतः।
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो।
पिण्डो देयो नरेणेह ततो मतिरभून्मम॥ 13-130-17(86366)
साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित्।
गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति॥ 13-130-18(86367)
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्।
शास्त्रप्रामाण्यसूक्ष्मं तु विधइं पिण्डस्य संस्मरन्॥ 13-130-19(86368)
ततो दर्भेषु तत्सर्वमददं भरतर्षभ।
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ॥ 13-130-20(86369)
ततः सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप।
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा॥ 13-130-21(86370)
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ।
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः॥ 13-130-22(86371)
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव।
आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह॥ 13-130-23(86372)
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः।
प्रमाणमुपनीता वै स्थिताश्च न विचालिताः॥ 13-130-24(86373)
तदिदं सम्यगारब्धं त्वयाऽद्य भरतर्षभ।
किन्तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति॥ 13-130-25(86374)
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः।
पाविता वै भविष्यन्ति पावनं हि परं हि तत्॥ 13-130-26(86375)
दश पूर्वान्दशैवान्यांस्तथा सन्तारयन्ति ते।
सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन्॥ 13-130-27(86376)
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशाम्पते।
सुवर्णदानेऽकरवं मतिं च भरतर्षभ॥ 13-130-28(86377)
इतिहासमिमं चापि शृणु राजन्पुरातनम्।
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च॥ 13-130-29(86378)
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा॥ 13-130-30(86379)
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः।
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्॥ 13-130-31(86380)
वाजिमेधं महाराज सर्वकामसमन्वितम्।
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम्॥ 13-130-32(86381)
विपाप्मा च स तेजस्वी तेन क्रतुफलेन च।
नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत॥ 13-130-33(86382)
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता।
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भारत॥ 13-130-34(86383)
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम्।
तदुच्यतां महाभागा इति जागघृणोऽब्रवीत्॥ 13-130-35(86384)
इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः।
राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात्॥ 13-130-36(86385)
भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति।
ते यद्ब्रूर्महाप्राज्ञास्तच्चैव समुदाचर॥ 13-130-37(86386)
ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम्।
तमेवार्तं महातेजाः पप्रच्छ भृगुनन्दनः॥ 13-130-38(86387)
जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत।
केन वा कर्मयोगेन प्रदानेनेह केन वा॥ 13-130-39(86388)
यदि वोऽनुग्रहकृता बुद्धिर्मां प्रति सत्तमाः।
प्रबूत पावनं किं मे भवेदिति तपोधनाः॥ 13-130-40(86389)
ऋषय ऊचुः। 13-130-41x(7171)
गाश्च भूमिं च वित्तं च दत्त्वेह भृगुनन्दन।
पापकृत्पूयते मर्त्य इति भार्गव शुश्रुम॥ 13-130-41(86390)
अन्यद्दानं तु विप्रर्षे श्रूयतां पावनं महत्।
दिव्यमत्यद्भुताकारमपत्यं जातवेदसः॥ 13-130-42(86391)
दग्ध्वा लोकान्पुरा वीर्यात्सम्भूतमिह शुश्रुम।
सुवर्णमिति विख्यातं तद्ददत्सिद्धिमेष्यसि॥ 13-130-43(86392)
ततोऽब्रवीद्वसिष्ठस्तं भगवान्संशितव्रतः।
शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम्॥ 13-130-44(86393)
फलं दास्यति ते यत्तु दाने परमिहोच्यते।
सुवर्णं यच्च यस्माच्च यथा च गुणवत्तमम्॥ 13-130-45(86394)
तन्निबोध महाबाहो सर्वं निगदतो मम।
अग्निषोमात्मकमिदं सुवर्णं विद्दि निश्चये॥ 13-130-46(86395)
अजोऽग्निर्वरुणो मेषः सूर्योऽश्च इति दर्शनम्।
कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति॥ 13-130-47(86396)
कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन।
इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः॥ 13-130-48(86397)
जगत्सर्वं च निर्मथ्य तेजोराशिः समुत्थितः।
सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम्॥ 13-130-49(86398)
एतस्मात्कारणाद्देवा गन्धर्वोरगराक्षसाः।
मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत्॥ 13-130-50(86399)
मुकुटैरङ्गदयुतैरलङ्कारैः पृथग्विधैः।
सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम॥ 13-130-51(86400)
तस्मात्सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम्।
भूमेर्गोभ्योऽथ रत्नेभ्यस्तद्विद्धि मनुजर्षभ॥ 13-130-52(86401)
पृथिवीं गाश्च दत्त्वेह यच्चान्यदपि किञ्चन।
विशिष्यते सुवर्णस्य दानं परमकं विभो॥ 13-130-53(86402)
अक्षयं पावनं चैव सुवर्णममरद्युते।
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम्॥ 13-130-54(86403)
सुवर्णमेव सर्वासु दक्षिणासु विधीयते।
सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत॥ 13-130-55(86404)
देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ।
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम्॥ 13-130-56(86405)
तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः।
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः॥ 13-130-57(86406)
भूय एव च महात्म्यं सुवर्णस्य निबोध मे।
गदतो मम विप्रर्षे सर्वशस्त्रभृतांवर॥ 13-130-58(86407)
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन।
प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै॥ 13-130-59(86408)
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः।
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह॥ 13-130-60(86409)
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन।
समागमे भगवतो देव्या सह महात्मनः॥ 13-130-61(86410)
ततः सर्वे समुद्विग्रा देवा रुद्रमुपागमन्॥
ते महादेवमासीनं देवीं च वरदामुमाम्। 13-130-62(86411)
प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह॥
अयं समागमो देव देव्या सह तवानघ। 13-130-63(86412)
तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः॥
अमोघतेजास्त्वं देव देवी चेयमुमा तथा। 13-130-64(86413)
अपत्यं युवयोर्देव बलवद्भविता विभो।
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति॥ 13-130-65(86414)
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन।
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया॥ 13-130-66(86415)
अपत्यार्थं निगृह्णीष्व तेजः परमकं विभो।
[त्रैलोक्यसारौ हि युवां लोकं सन्तापयिष्यथ॥ 13-130-67(86416)
तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम्।
न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो॥ 13-130-68(86417)
नेदं धारयितुं शक्ताः समस्ता इति मे मतिः।
तेजःप्रभावनिर्दग्धं तस्मात्सर्वमिदं जगत्॥ 13-130-69(86418)
तस्मात्प्रसादं भगवन्कर्तुमर्हसि नः प्रभो।
न देव्यां सम्भवेत्पुत्रो भवतः सुरसत्तम।
धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम्॥ 13-130-70(86419)
इति तेषां कथयतां भगवान्वृषभध्वजः]।
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत॥ 13-130-71(86420)
इत्युक्त्वा चोर्ध्वमनयद्रेतो वृषभवाहनः।
ऊर्ध्वरेषः समभवत्ततः प्रभृति चापि सः॥ 13-130-72(86421)
रुद्राणीति ततः क्रुद्धा प्रजोच्छेद तदा कृते।
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः॥ 13-130-73(86422)
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः।
तस्मात्सर्वे सुरा भूयमनपत्या भविष्यथ॥ 13-130-74(86423)
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै।
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति॥ 13-130-75(86424)
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह।
देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन्॥ 13-130-76(86425)
रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा।
प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि॥ 13-130-77(86426)
उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम्।
तेजस्तेजसि संयुक्तमेकयोनित्वमागतम्॥ 13-130-78(86427)
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः।
असुरस्तारको नाम तेन सन्तापिता भृशम्॥ 13-130-79(86428)
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि।
साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात्॥ 13-130-80(86429)
स्थानानि देवतानां हि विमानानि पुराणि च।
ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हृताः॥ 13-130-81(86430)
ते दीनमनसः सर्वे देवता ऋषयश्च ये।
प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम्॥ ॥ 13-130-82(86431)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशदधिकशततमोऽध्यायः॥ 130 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-130-3 पूयन्ते शुध्यन्ति॥ 7-130-21 तृप्तास्ते पितरस्तथेति थ.ध.पाठः॥ 7-130-27 नवपूर्वानधश्चान्यान्नव सन्तारयन्ति ते इति थ.ध.पाठः॥ 7-130-33 लघुतां निष्पापताम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|